निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः। जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
तस्य शैलस्य शिखरे सरः पुण्यं महीपते। फुल्लपद्मं महाराज देवगन्धर्वसेवितम्
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते। पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्। विश्चामित्रेण तपसा निर्मिता सर्वपावनी
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः। पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्
तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः। बहुमूलफलोपेतस्त्वमितो नाम पर्वतः
आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः। च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव। तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्। आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः
ततः पुण्यतमा राजन्सततं तापसैर्युता। केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप। ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्
पितामहसरः पुण्यं पुष्करं नाम नामतः। वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः
अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ। पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर
मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः। विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै। तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च
शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो। कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम्
सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी। समुद्रगा महावेगा यमुना यत्र पाण्डव
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम्। यत्रसारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ। सहदेवोऽयजद्यत्रशम्याक्षेपेण भारत
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर। गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः
अग्नयः सहदेवेन ये चिता यमुनामनु। ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः
तत्रैव भरतो राजा चक्रवर्ती महायशाः। विंशतीं सप्त चाष्टौ च हयमेधानुपाहरत्
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा। अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः
सरस्वती नदी सद्भिः सततं पार्थ पूजिता। वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा
दृषद्वती महापुण्या यत्र रख्याता युधिष्ठिर। न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्योद्विपदांवर। दाल्भ्यघोषश्च दाल्भ्याश् धरणीस्थो महात्मनः
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप। ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा। विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः
ऋषिर्महान्महाभागो जमदग्निर्महायशाः। पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः
यत्रसर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम्। स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ। इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः