अशोकतीर्थं तत्रैव कौन्ते य बहुलाश्रमम्। अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ। ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे। गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः। ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः
तत्र वृक्षतृणाद्यैश्च संपन्नः फलमूलवान्। आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसहे गिरौ
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः। अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च। आश्रमान्सरितश्चैव सरांसि च नराधिप
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत। प्रभासं चोदधौ तीर्थं त्रिषु लोकेषु विश्रुतम्
तत्र पिण्डारकं नाम तापसाचरितं शिवम्। उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान्
तत्र देवर्षिवीरेण नारदेनानुकीर्तितः। पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते। उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते
एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः। नागपर्यङ्कमुत्सृज्यह्यागतो मधुरां पुरीम्
पुण्या द्वारवती तत्रयत्रासौ मधुसूदनः। साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः
ये च कवेदविदो विप्रा ये चाध्यात्मविदो जनाः। ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते। पुण्यानामपि पुण्योसौ मङ्गालानां च मङ्गलम्। त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः
अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः। आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि। यानि तत्रपवित्राणि पुण्यान्यायतनानि च
प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी। प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च। सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः
नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः। स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत
निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः। जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
तस्य शैलस्य शिखरे सरः पुण्यं महीपते। फुल्लपद्मं महाराज देवगन्धर्वसेवितम्
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते। पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्। विश्चामित्रेण तपसा निर्मिता सर्वपावनी
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः। पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्
तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः। बहुमूलफलोपेतस्त्वमितो नाम पर्वतः
आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः। च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव। तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्। आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः
ततः पुण्यतमा राजन्सततं तापसैर्युता। केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप। ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्