महानदी च तत्रैव तथा गयशिरो नृप। यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः
यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो। सा च पुण्यजला तत्र फल्गुनामा महानदी
बहुमूलफला चापि कौशिकी भरतर्षभ। विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः
गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः। अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्। विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ। विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम्
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः। ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत्
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्। गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम्
यत्रायजत भूतात्मा पूर्वमेव पितामहः। प्रयागमिति विख्यातं तस्माद्भरतसत्तम
अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप। तत्तथा तापसारण्यं तापसैरुपशोभितम्
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान्। आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः। अयजत्तत्रकौन्तेय पूर्वमेव पितामहः
यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर। यत्र सा ब्रह्मशालेति पुण्याख्याता विशांपते। धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम्
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः। केदारश्च मतङ्गस्य महानाश्रम उत्तमः
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः। नैषधस्तृषितो यत्र जलं शर्म च लब्धवान्
यत्र देववनं पुण्यं तापसैरुपशोभितम्। बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च। प्राच्यां दिशि महाराज कीर्तितानि मया तव
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु। सरितः पर्वतांश्चैव पुण्यान्यायतनानि च
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत। विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी। बह्वारामा बहुजला तापसाचरिता शिवा
वेणा भीमरथी चैव नद्यौ पापभयापहे। मृगद्विजसमाकीर्णे तापसालयभूषिते
राजर्षेस्तस् च सरिन्नृगस्य भरतर्षभ। रम्यतीर्था बहुजला पयोष्णी द्विजसेविता
अपि चात्र महायोगी मार्कण्डेयो महायशाः। अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः
नृगस् यजमानस्य प्रत्यक्षमिति नः श्रुतम्। `मरुतः परिवेष्टारः सदस्याश्च दिवौकसः
पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे। उद्धृतं भूतलस्थं वावायुना समुदीरितम्। पयोष्ण्या हरते तोयं पापमामरणान्तिकम्
स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः। स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत्
एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः। पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम
माठरस्य वनं पुण्यं बहुमूलफलं शिवम्। यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ
प्रवेण्युत्तरपार्स्वे तु पुण्ये कण्वाश्रमे तथा। तापसानामरण्यानि कीर्तितानि यथाश्रुति
वेदी शूर्पारके तात जमदग्नेर्महात्मनः। रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत