भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्। अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्। शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते। न चाप्यवमतस्येह वासो रोचेत कस्यचित्
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा। एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने। नावमानात्कृतवती तवाहं विप्रे बोधनम्
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्। उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्। न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः। सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे
इतो मयि गते भीरु गतः स भगवानिति। त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा
बाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता। न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्। प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। मातृशापाभिभूतानां ज्ञातीनां मम सत्तम
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते। त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्
संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज। ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये
इममव्यक्तरूपं मे गर्भमाधाय सत्तम। कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। यद्युक्तमनुरूपं च जरत्कारुं तपोधनः
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः। ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। भ्रातुः सकाशमागत्य यथातथ्यं तपोधन
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। उवाच भगिनीं दीनां तदा दीनतरः स्वयम्
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः। नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम्। उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत। आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः। अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः