मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः। अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः
स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः। कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ। अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ। नारदोऽपितथा वेद योष्यशंसत्सदा मम
तथाऽहमपि जानामि नरनारायणावृषी। शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम्। द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः। धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा। `सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः'। योद्धुकामाश्च पार्थेन सततं ये महाबलाः
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः। योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः। रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः
निसृष्ट इव कालेन युगान्तज्वलनो यथा। मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः
तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान्। श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः
संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम्। उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः। दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते
अलं स तेषां सर्वेषामिति मे धीयते मतिः। नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम्। द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर। अवधानं न गच्छामः काम्यके सह कृष्णया
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि। आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः
यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम्। प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम्
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान्। सरांसि सरितश्चैव रमणीयांश्च पर्वतान्
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम्। वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः। अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत्
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ। दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ
याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह। द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव। गत्वा शतगुणं चैव तेभ्य एव नरोत्तम
शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम्। रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति
तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत। यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक्
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता। यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः। शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः। एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत्। उत्तारयति संतत्या दश पूर्वान्दशावरान्