एष ते लोमशो नाम महर्षिरमितद्युतिः। समेष्यति महाराज तेन सार्धमनुव्रज
मयाऽपिसह धर्मज्ञ तीर्थान्येतान्यनुक्रमात्। प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषक्
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः। तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे
यथा भगीरथो राजा यथा रामश्च विश्रुतः। तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः। यथा वैन्यो महाराज तथा त्वमपि विश्रुतः
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा। त्रैलोक्यं पालयामास देवराड्विगतज्वरः
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि। स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन। ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा
एवमाश्वास्य राजानं नारदो भगवानृषिः। अनुज्ञाप्य महाराज तत्रैवान्तरधीयत
युधिष्ठिरोषि धर्मात्मा तमेवार्थं विचिन्तयन्। तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत्
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः। पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः। अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः
स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः। कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ। अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ। नारदोऽपितथा वेद योष्यशंसत्सदा मम
तथाऽहमपि जानामि नरनारायणावृषी। शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम्। द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः। धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा। `सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः'। योद्धुकामाश्च पार्थेन सततं ये महाबलाः
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः। योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः। रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः
निसृष्ट इव कालेन युगान्तज्वलनो यथा। मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः
तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान्। श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः
संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम्। उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः। दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते
अलं स तेषां सर्वेषामिति मे धीयते मतिः। नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम्। द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर। अवधानं न गच्छामः काम्यके सह कृष्णया
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि। आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः
यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम्। प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम्
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान्। सरांसि सरितश्चैव रमणीयांश्च पर्वतान्
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम्। वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति