पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति। अवगाढा च पीता च पुनात्यासप्तमं कुलम्
यावदस्थि मनुष्यस् गङ्गायाः स्पृशते जलम्। तावत्स पुरुषो राजन्स्वर्गलोके महीपते
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च। उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक्
न गङ्गासदृशं तीर्थं न देवः केशवात्परः। ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः
यत्र गङ्गा महाराज स देशस्तत्तपोकवनम्। सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम्
इदं सत्यंद्विजातीनां साधूनामात्मनोपि च। सुहृदां च जपेत्कर्मे शिष्यस्यानुगतस्य च
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम्। इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम्
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्। अधीत्यद्विजमध्ये च निर्मलः स्वर्गमाप्नुयात्
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम्। मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम्
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्। शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन्। महीं विजयते राजा वैश्यो धनमवाप्नुयात्
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः। जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च। मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः। ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत। व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन्
भाषितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्। प्राप्यन्ते तानि तीर्तानि सद्भिः शास्त्रार्थदर्शिभिः। सद्भिः शास्त्रार्थतत्वज्ञैर्ब्राह्मणैः सह गम्यताम्
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः। स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना। `पितरस्तात सर्वे च तारिताः प्रपितामहाः
पिता पितामहस्चैव सर्वे च प्रपितामहाः। पितामहपुरोगाश्च देवाः सर्षिगणा नृप। तव धर्मेण धर्मज्ञ नित्यमेवाभितोषितः
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम। कीर्तिं च महातीं भीष्म प्राप्स्यसे भुविशाश्वतीं
एवमुक्त्वाऽभ्यनुज्ञाय पुलस्त्यो भगवानृषिः। प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्। पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता। तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी
अनेन विधिना यस्तु पृथिवीं संचरिष्यति। अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्। भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान्
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम्। रक्षोगणबिकीर्णानि तीर्थान्येतानि भारत। अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन
इदं देवर्षिचरितं सर्वतीर्ताभिसंवृतम्। यः पठेच्छृणुयाद्वाऽपिसर्वपापैः प्रमुच्यते
ऋषिमुख्याः सदा यत्रवाल्मीकिस्त्वथ कश्यपः। आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः। भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा
शौनकः सह पुत्रेण व्यासश्च तपतांवरः। दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः। एभिः सह महाराज तीर्थान्येतान्यनुव्रज