तत्र कूपे महाराज विश्रुता भरतर्षभ। समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः। नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत राजेन्द्र शृङ्गबेरपुरं महत्। यत्रतीर्णो महाराज रामो दाशरथिः पुरा
रकतस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते। गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः
विधूतपाप्मा भवति वाजपेयं च विन्दति। ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः
अभिगम्य महादेवमभिवाद्य च भारत। प्रदक्षिणमुपावृत् यगाणपत्यमवाप्नुयात्
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते। ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः। लोकपालाश्च साध्याश्च पितरो लोकसंमताः
सनत्कुमारप्रमुखास्तथैव परमर्षयः। अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा। सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः। तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
यमुना गङ्गया सार्धं संगता लोकपावनी। गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्
प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः। तत्रवेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः। यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत। प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो
श्रवणात्तस्य तीर्थस् नामसंकीर्तनादपि। मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते। पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः
एषा यजनभूमिर्हि देवानामभिसंस्कृता। तत्र रदत्तं सूक्ष्ममपि महद्भवति भारत
न वेदवचनात्तात न लोकवचनादपि। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति
दशतीर्तसहस्राणि षष्टिः कोट्यस्तथाऽपराः। येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्। स्नात एव तदाप्नोति गङ्गायमुनसंगमे
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्। तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत्
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्। दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता। विशेषो वै कनखले प्रयागे परमं महत्
यद्यकार्यशतं कृत्वा कृतंगङ्गावसेचनम्। सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम्
सर्वं कृतयुगे पुण्यंत्रेतायां पुष्करं स्मृतम्। द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये। मलये त्वग्निमारोहेद्भृगुतुन्दे त्वनाशनम्
पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च। स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा