तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम। पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा
तत्रमासं वसेद्धीरो नियतो नियताशनः। ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत्
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्। अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति
अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम्। तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्
आत्मानं स्नापयेत्तत्रगिरौ कालञ्जरे नृप। स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते। मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम्
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम्। यत्र नित्यं महासेनो गुहः सन्निहितो नृप
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति। कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः। अभिगम्य महादेवं विराजति यथा शशी
तत्र कूपे महाराज विश्रुता भरतर्षभ। समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः। नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत राजेन्द्र शृङ्गबेरपुरं महत्। यत्रतीर्णो महाराज रामो दाशरथिः पुरा
रकतस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते। गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः
विधूतपाप्मा भवति वाजपेयं च विन्दति। ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः
अभिगम्य महादेवमभिवाद्य च भारत। प्रदक्षिणमुपावृत् यगाणपत्यमवाप्नुयात्
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते। ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः। लोकपालाश्च साध्याश्च पितरो लोकसंमताः
सनत्कुमारप्रमुखास्तथैव परमर्षयः। अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा। सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः। तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
यमुना गङ्गया सार्धं संगता लोकपावनी। गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्
प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः। तत्रवेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः। यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत। प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो
श्रवणात्तस्य तीर्थस् नामसंकीर्तनादपि। मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते। पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः
एषा यजनभूमिर्हि देवानामभिसंस्कृता। तत्र रदत्तं सूक्ष्ममपि महद्भवति भारत