ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः। मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्। गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम्
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्। वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः। गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः। त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे। जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः। यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत। ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत्
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम्। पितृदेवार्चनरतो गोसहस्रफलं लभेत्
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत्। गोसहस्रफलं तस्य स्नातमात्रस्य भारत
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। न दुर्गतिमवाप्नोति पुनाति च कुलं नरः
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्। रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम्
सप्तगोदावरे स्नात्वा नियतो नियताशनः। महत्पुण्यमवाप्नोति देवलोकं च गच्छति
ततो देवपथं गत्वा नियतो नियताशनः। देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः
तुङ्गकारण्यमासाद्य ब्र्हमचारी जितेन्द्रियः। वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः। ऋषीणआमुत्तरीयेषु सूपविष्टो यथासुखम्
ओंकारेण यथान्यायं सम्यगुच्चारितेन ह। येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम्
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः। हरिर्नारायणस्तत्र महादेवस्तथैव च
पितामहश्च भगवान्देवैः सह महाद्युतिः। भृगुं नियोजयामास याजनार्थे महाद्युतिम्
ततः स चक्रे भगवानृषीणां विधिवत्तदा। सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा
आज्यभागेन तत्राग्नीं तर्पयित्वा यथाविधि। देवाः स्वभवनं याता ऋषयश्च यथाक्रमम्
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम। पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा
तत्रमासं वसेद्धीरो नियतो नियताशनः। ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत्
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्। अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति
अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम्। तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्
आत्मानं स्नापयेत्तत्रगिरौ कालञ्जरे नृप। स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते। मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम्
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम्। यत्र नित्यं महासेनो गुहः सन्निहितो नृप
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति। कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः। अभिगम्य महादेवं विराजति यथा शशी