ततो बदरिकातीर्थे स्नात्वा भरतसत्तम। दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः। दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत्
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम्। वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते
ततो महेन्द्रमासाद्य जामदग्न्यनिपेवितम्। रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन। तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत्
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्। रअश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम्
श्रीपर्वते महादेवो देव्या सह महाद्युतिः। न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम्। वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः। तत्रस्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्। तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्। समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्
रयत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। भूतयक्षपिशाचाश्च किन्नराः समहोरगाः
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा। सरितः सागराः शैला उपासन्त उमापतिम्
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्। त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्। निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप
गायत्रीं पठते यस्तु योनिसंकरजस्तथा। गाथा च गाथिका चापि तस्य संपद्यते नृप
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्। रूपस्य भागी भवति सुभगश्च प्रजायते
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः। मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्। गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम्
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्। वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः। गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः। त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे। जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः। यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत। ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत्
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम्। पितृदेवार्चनरतो गोसहस्रफलं लभेत्
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत्। गोसहस्रफलं तस्य स्नातमात्रस्य भारत
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। न दुर्गतिमवाप्नोति पुनाति च कुलं नरः