करतोयां समासाद्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः। त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात्
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम्। विरजातीर्थमासाद्य विराजति यथा शशी
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति। गोसहस्रफंल लब्ध्वा रपुनाति स्वकुलं नरः
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः। तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
शोणस्य नर्मदायाश् प्रभेदे कुरुनन्दन। वंशगुल्म उपस्पृश्य वाचजिमेधफलं लभेत्
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः। गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत्। वृषभैकादशफलं लभते नात्र संशयः
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः। गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप
ततो बदरिकातीर्थे स्नात्वा भरतसत्तम। दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः। दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत्
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम्। वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते
ततो महेन्द्रमासाद्य जामदग्न्यनिपेवितम्। रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन। तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत्
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्। रअश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम्
श्रीपर्वते महादेवो देव्या सह महाद्युतिः। न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम्। वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः। तत्रस्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्। तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्। समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्
रयत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। भूतयक्षपिशाचाश्च किन्नराः समहोरगाः
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा। सरितः सागराः शैला उपासन्त उमापतिम्
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्। त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्। निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप
गायत्रीं पठते यस्तु योनिसंकरजस्तथा। गाथा च गाथिका चापि तस्य संपद्यते नृप
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्। रूपस्य भागी भवति सुभगश्च प्रजायते