प्रतिगृह्य च तां पूजां नारदो भगवानृषिः। आश्वासयद्धर्मसुतं युक्तरूपमिवानघ
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्। ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह। उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम्
न्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते। कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ। संदेहं मे सुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः। किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति
शृणु राजन्नवहितो यथा भीष्मेण धीमता। पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः। पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह
शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते। गङ्गाद्वारे महाभाग देवगन्धर्वसेविते
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः। ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा
कस्य चित्त्वथ कालस्य जपन्नेव महायशाः। ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया। प्रहर्षमतुलं लेभे विस्मयं परमं ययौ
उपस्थितं महाभागं पूजयामास भारत। भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
शिरसा चाघमादाय शुचिः प्रयतमानसः। नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत। तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वपैः
रएवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः। वाग्यतः प्राञ्जलिर्भूत्वातूष्णीमासीद्युधिष्ठिर
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्। भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत्
ततः स मधुरेणाथ स्वरेण सुमहातपाः। उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः
अथ सन्ध्यां समासाद्य संवेद्ये तीर्थ उत्तमे। उपस्पृश्य नरो विद्यां लभते नात्र संशयः
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा। तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्
करतोयां समासाद्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः। त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात्
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम्। विरजातीर्थमासाद्य विराजति यथा शशी
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति। गोसहस्रफंल लब्ध्वा रपुनाति स्वकुलं नरः
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः। तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
शोणस्य नर्मदायाश् प्रभेदे कुरुनन्दन। वंशगुल्म उपस्पृश्य वाचजिमेधफलं लभेत्
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः। गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत्। वृषभैकादशफलं लभते नात्र संशयः
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः। गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप