एवं ते न्यवसंस्तत्रसोत्कणअठाः पुरुषर्षभाः। अहृष्टमनसः सर्वेगते राजन्धनंजये
अथ विप्रोषितं राजन्पाञ्चाली मध्यमं पतिम्। स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत्
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे
शून्यामिव प्रपश्यामि तत्रतत्र महीमिमाम्। बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्
न तथा रमणीयं वै तमृते सव्यसाचिनम्। नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम्
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे। यस्य वा धनुषो घोषः श्रूयते चाशनिस्वनः। न लभे शर्म वै राजन्स्मरन्ती सव्यसाचिनम्
तथा लालप्यमानां तां निशाम्य परवीरहा। भीमसेनो महाराज द्रौपदीमिदमब्रवीत्
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे। तन्म प्रीणाति हृदयममृतप्राशनोपमम्
यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ। मौर्वीकृतकिणौ वृत्तौ खङ्गायुधधनुर्धरौ
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ। तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम्
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा। सुराणामपि यत्तानां पृतनासु न बिभ्यति
यस्य बाहू समाश्रित्य वयं सर्वेमहात्मनः। मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्। पश्यामि च दिशः सर्वास्तिमिरेणावृता इव
ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः। यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे। देवा अपि युधांश्रेष्ठं तमृतेका रतिर्वने
उदीचीं चो दिशं गत्वा जित्वा युधि महाबलान्। गन्धर्वमुख्याञ्शतशो हर्याँल्लेबे महाद्युतिः
राज्ञे तित्तिरिकल्माषाञ्श्रीमतोऽनिलरंहसः। प्रादाद्भात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ
तमृतेभीमधन्वानं भीमादवरजं वने। कामये काम्यके वासं नेदानीममरोपमम्
यो धनानिन कन्याश्च युधि हित्वा महाबलान्। `शतशो घातयित्वाऽरीन्पृतनामध्यगस्तदा'। आजहार पुरा राज्ञे राजसूये महाक्रतौ
यः समेतान्मृधे जित्वायादवानमितद्युतिः। सुभद्रामाजहारैको वासुदेवस्य संमते
येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः। आचार्यदक्षिणा दत्ता रणे द्रोणश्यभारत
तस्य जिष्णोर्बृसीं दृष्ट्वा सून्यत्रेव निवेशने। हृदयं मे महाराज न शाम्यात्रकदाचन
विनादस्माद्विवासं तु रोचयेऽहमरिंदम। न हि नस्तमृते वीरं रमणीयमिदं वनम्
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः। न्यवसन्त महाभागा द्रौपद्या सह कृष्णया
धनं जयोत्सुकानां तु भ्रातॄणां कृष्णया सह। श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्। दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट्। प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः। विबभावतिदीप्तौजा देवैरिव शतक्रतुः
यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन्। न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
अर्ध्यं पाद्यमथानीय त्वभ्यवायदच्युतः। नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत
ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम्। यथार्हं पूजयामास विधिवत्कुरुनन्दनः