एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः। पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः। आजगाम वसिष्ठोऽपि वामदेवसहायवान्
उपस्थाने च संवृत्ते सुखासीने पुरंदरे। वर्ण्यमानेषु च तदा सत्यवादिषु राजसु
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे। यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात्। तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम्
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः। पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः। अवाप परमं दुःखं मरणादमनोहरम्
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः। भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः। विस्मयं परमं गत्वा साधुसाध्वित्यभाषत
ततो हरिश्चन्द्रकथां च सर्वे श्रुत्वा तु राजा मनुजेन्द्रकेतुः। विहाय शोकं विजहार भूयः स्मरन्हरिश्चन्द्रमनन्तकीर्तिम्
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम्। आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह'। उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम्। वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम्
ब्राह्मणएभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः। तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः
इतिपार्थो महाबाहुर्दुरापं तप आस्थितः। न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः। मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने। अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्
दह्यमानेन तु हृदा शरणार्थी महावने। ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः
प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः। आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः। अपश्यन्नर्जुनं तत्रबभूवाश्रुपरिप्लुतः
संतप्यमानः कौन्तेयो भीमसेनमुवाच ह। कदा द्रक्ष्यामि वै भीम पार्तमत्र तवानुजम्
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः। तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्बहम्
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो। प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः
भगवान्काम्यकात्पार्थे गते मे प्रपितामहे। पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम्
स हि तेषां महेष्वासो गतिरासीदनीकजित्। आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे
तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना। विनाभूता वने वीराः कथमासन्पितामहाः
गते तु पाण्डवेतात काम्यकात्सव्यसाचिनि। बभूवुः कौरवेयास्ते दुःखशोकपरायणाः
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इवाण्डजाः। अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः
वनं तु तदभूत्तेन हीनमक्लिष्टकर्मणा। कुबेरेण यथाहीनं वनं चैत्ररथं तथा
तमृते ते नरव्याघ्राः पाण्डवा जनमेजय। मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्वाणैर्महारथाः। निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्
नित्यंहि पुरुषव्याघ्रा वन्याहारमरिंदमाः। प्रविसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन्