इतिहासमिमं चापि कलिनाशनमच्युत। शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा। तस्योदये व्यये चापि न चिन्तयितुमर्हसि
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः। व्यसने त्वं महाराज न विषीदितुमर्हसि
विषमावस्थिते दैवे पौरुषेऽफलतां गते। विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः
ये चेदं कथयिष्यन्ति नलस् चरितं महत्। श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति। इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम्। आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः। अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते
ततो हृष्टमना राजा बृहदश्वमुवाच ह। भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः
कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः'। ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने। `लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः। तं शृणुष्व महाराज सर्वदुःखापनुत्तये
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः। त्रिशङ्कुरिति विख्यातोराजराजो महाद्युतिः
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात्। ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः। सत्यवादी मधुरवाक्सत्येन बहुभाषिता
तस्य भार्याऽभवद्भूमौ सौशील्यसमलंकृता। उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा
स्वयंवरे महाभागं वरयामास भामिनी। हरिश्चन्द्रं समेतानां राज्ञां मद्ये पतिं विभुम्
तया सह महीपालः सत्यवत्या मनोज्ञया। रेमे च सुचिरं कालं राजा राज्यमवाप्य च
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः। पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः। वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः। पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः। आजगाम वसिष्ठोऽपि वामदेवसहायवान्
उपस्थाने च संवृत्ते सुखासीने पुरंदरे। वर्ण्यमानेषु च तदा सत्यवादिषु राजसु
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे। यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात्। तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम्
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः। पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः। अवाप परमं दुःखं मरणादमनोहरम्
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः। भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः। विस्मयं परमं गत्वा साधुसाध्वित्यभाषत
ततो हरिश्चन्द्रकथां च सर्वे श्रुत्वा तु राजा मनुजेन्द्रकेतुः। विहाय शोकं विजहार भूयः स्मरन्हरिश्चन्द्रमनन्तकीर्तिम्
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम्। आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह'। उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः