सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः। प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः
महत्या सेनया सार्धंविनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः। `हितेषु चैषां सततं पितेवावहितोऽभवत्
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः। ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः
अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च। उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम्
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत्
पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः। मुदा परमया युक्तो बभूव भरतर्षभ
अथ हृष्टमना राजा महत्या सेनया सह। सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते
दमयन्तीमपि पिता सत्कृत्यपरवीरहा। प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो दोवराडिव नन्दने
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु। पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः। तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात्
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः। देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ
एकाकिनैव सुमहन्नलेन पृथिवीपते। दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव। कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन्
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। नित्यमन्वास्यसे राजंस्तत्र का परिदेवना
कर्कोटकस्य नागस् दमयन्त्या नलस्य च। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्
इतिहासमिमं चापि कलिनाशनमच्युत। शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा। तस्योदये व्यये चापि न चिन्तयितुमर्हसि
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः। व्यसने त्वं महाराज न विषीदितुमर्हसि
विषमावस्थिते दैवे पौरुषेऽफलतां गते। विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः
ये चेदं कथयिष्यन्ति नलस् चरितं महत्। श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति। इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम्। आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः। अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते
ततो हृष्टमना राजा बृहदश्वमुवाच ह। भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः