श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः। इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः। पणावः किं व्याहरसे जितो न व्याहरिष्यसि
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च। एकपाणेन भद्रं ते नलेन स पराजितः
स रत्नकोशनिचयैः प्राणेन पणितोपि च। जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम्। वैदर्भी न त्वया शक्या राजापशद वीक्षितम्। तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः
न त्वया तत्कृतंकर्म येनाहं विजितः पुरा। कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन। यथासुखं वै जीवत्वंप्राणानवसृजामि ते
तथैव सर्वसंभारं स्वमंशं वितरामि ते। तथैव च मम प्रीतिस्त्वयि वीर न संशयः
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति। पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम्
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः। वचनैस्तोषयामास परिष्वज्य पुनः पुनः
सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः। प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः
महत्या सेनया सार्धंविनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः। `हितेषु चैषां सततं पितेवावहितोऽभवत्
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः। ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः
अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च। उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम्
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत्
पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः। मुदा परमया युक्तो बभूव भरतर्षभ
अथ हृष्टमना राजा महत्या सेनया सह। सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते
दमयन्तीमपि पिता सत्कृत्यपरवीरहा। प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो दोवराडिव नन्दने
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु। पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः। तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात्
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः। देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ
एकाकिनैव सुमहन्नलेन पृथिवीपते। दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव। कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन्
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। नित्यमन्वास्यसे राजंस्तत्र का परिदेवना
कर्कोटकस्य नागस् दमयन्त्या नलस्य च। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्