अशोभयच्च नगरीं पताकाध्वजमालिनीम्। सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। अर्चितानि च सर्वाणि देवतायतनानि च
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः
तमानाय्य नलं राजा क्षमयामास पार्थिवः। स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः
स सत्कृतोमहीपालो नैषधं विस्मिताननः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत
कच्चित्तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासे वसतो मद्गृहेवसुधाधिप
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित्। मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहेराजन्यथा तव गृहे सदा
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः। स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप। निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः। सूतमन्यमुपादाय ययौ स्वपुरमेव ह
ऋतुपर्णे गते राजन्नलो राजा विशांपते। नगरे कुण्डिने कालं नातिदीर्गमिवावसत्
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः। पुरादल्पपरीवारो जगाम निषधान्प्रति
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै। पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः
स कम्पयन्निव महीं त्वरमाणो महापुरीम्। प्रविवेशाथ संरब्धस्तरसैव महामनाः
ततः पुष्करमासाद्य वीरसेनसुतो नलः। उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम्
दमयन्ती च यच्चान्यन्मम किंचन विद्यते। एष वै मम संन्यासस्तव राज्यंतु पुष्कर
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः। एकपाणेन भद्रं ते प्राणयोश्च पणावहे
जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु। प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्। द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा। येनकेनाप्युपायेन वृद्धानामिति शासनम्
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव। ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम्
दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध। दिष्ट्या च दुष्कृतंकर्म दमयन्त्याः क्षयं गतम्
दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध। पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम
धनेनानेन वै भैमी जितेन समलंकृता। मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध। देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः
जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम्। कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि