यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्। भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम्। प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत
असनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन। वासुकिं भरणं चास्या न कुर्यामित्युवाच ह
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। सनाम्नी तव कन्येयं स्वसा मे तपसान्विता
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम
न भरिष्येऽहमेतां वै एष मे समयः कृतः। अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्
ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्। जगाम भार्याम दाय स्तूयमानो महर्षिभिः
शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम्। तत्र भार्यासहायो वै जरत्कारुरुवास ह
स तत्र समयं चक्रे भार्यया सह सत्तमः। विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे। एतद्गृहाण वचनं मया यत्समुदीरितम्
ततः परमसंविग्ना स्वसा नागपतेस्तदा। अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति
तथैव सा च भर्तारं दुःखशीलमुपचारत्। उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा। भर्तारं वै यथान्यायमुपतस्थे महामुनिम्
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः। अतीव तेजसा युक्तो वैश्वानरसमद्युतिः
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः। ततः कतिपयाहस्तु जरत्कारुर्महायशाः
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्। तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्
अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा। वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः। धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा। तमृषिं दीप्ततपसं शयानमनलोपमम्
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी। उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः। प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो। एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः