तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत। दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः। संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता
भैमीमपि नलो राजा भ्राजमानो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्। सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम्। दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ। वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह
स चतुर्थे ततो वर्षे संगम्य सह भार्यया। सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्। अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा
सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा। रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः। वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्
ततोऽभिवादयामास प्रयतः श्वशुरं नलः। ततो नु दमयन्ती च ववन्दे पितरं शुभा
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा। यथार्हं पूजयित्वा च समाश्वासयत प्रभुः
नलेन सहितां तत्रदमयन्तीं पतिव्रताम्। `अनुजग्राह महता सत्कारेण क्षितीश्वरः
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि। परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्
ततो बभूव नमरे सुमहान्हर्षजः स्वनः। जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम्
अशोभयच्च नगरीं पताकाध्वजमालिनीम्। सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। अर्चितानि च सर्वाणि देवतायतनानि च
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः
तमानाय्य नलं राजा क्षमयामास पार्थिवः। स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः
स सत्कृतोमहीपालो नैषधं विस्मिताननः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत
कच्चित्तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासे वसतो मद्गृहेवसुधाधिप
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित्। मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहेराजन्यथा तव गृहे सदा