मम च व्यवसायेन तपसा चैव निर्जितः। दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे
विमुच्य मां गतः पापस्ततोऽहमिह चागतः। त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्। उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्। भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः। श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्। प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्
न मामर्हसि कल्याण पापेन परिशङ्कितुम्। मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः। वाक्यानि मम गाथाभिर्गायमाना दिशो दश
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव। अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने
तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते। उपायोऽयंमया दृष्टो नैषधानयने तव
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते। समर्थो योजनशतं गन्तुमश्वैर्नराधिप
तथापि मां महीपाल भजेतां चरणौ तव।' स्पृशेयं तेन सत्येन पादावेतौ महीपते। यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम्
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः। एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम्
यथा चरति तिग्मांशुः परितो भुवनं सदा। स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्। स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै। विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम्
एवमुक्ते ततो वायुरन्तरिक्षादभाषत। नैषा कृतवती पापं नल सत्यं ब्रवीमि ते
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः। साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्
उपायो विहितश्चायं त्वदर्थमतुलोऽनया। न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते। नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत। दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः। संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता
भैमीमपि नलो राजा भ्राजमानो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्। सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम्। दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप