वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः। मिथुनं प्रेषयामास केशिन्या सह भारत्
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः। अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत्
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ। भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
नैषधो दर्शयित्वा तु विकारमसकृत्तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः। अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः। वयंच देशातिथयो गच्छ भद्रे यथासुखम्
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः। आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका
परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम्
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि। विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम्
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ। `तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात्। आनयस्व यथा माता त्वं तथा कुरु मे प्रियम्
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत्। भीमस्य शासनात्सूतागताहं विद्धि बाहुक
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ। बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत। प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः। आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी
ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक। सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम्
अनागसं प्रियां भार्यां विजने श्रममोहिताम्। अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम्
किमु तस्य मया बाल्यादपराद्धं महीपतेः। यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम्
साक्षाद्देवानपाहाय वृतो यः स पुरा मया। अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम्
अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम्। भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम्
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम। शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत्। परिस्रवन्नलो राजा शोकार्तइदमब्रवीत्
नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः। आविष्टः कलिना भद्रे तेन मोहवशं गतः
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्। कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम्
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा। वनस्थया दुःखितया शोचन्त्या मांदिवानिशम्
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः। त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः