अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः। तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया। यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्। अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः। मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा। भूय एव सुगन्धीनि हृपितानि भवन्ति हि
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता। चेष्टितानि विशालाक्षि बाहुकस्य समीपतः
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्। अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्। केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत्
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्। महानसाच्छ्रितं मांसमानयस्वेह भामिनि
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च। अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी। दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा। प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः। मिथुनं प्रेषयामास केशिन्या सह भारत्
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः। अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत्
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ। भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
नैषधो दर्शयित्वा तु विकारमसकृत्तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः। अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः। वयंच देशातिथयो गच्छ भद्रे यथासुखम्
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः। आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका
परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम्
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि। विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम्
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ। `तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात्। आनयस्व यथा माता त्वं तथा कुरु मे प्रियम्
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत्। भीमस्य शासनात्सूतागताहं विद्धि बाहुक
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ। बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत। प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः। आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी
ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक। सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम्