इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ। गतस्ततो यथाकामं नैष जानाति नैषधम्
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः
आत्मैव तु नलं वेद या चास्य तदनन्तरा। न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित्
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनःपुनः
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता
तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः। बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत्
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः
विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्रन क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम्। राज्यभ्रष्टं श्रिया हीनं क्षिधितं व्यसनाप्लुतम्
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः। न बाष्पमशकत्सोढुं प्ररुरोद च भारत
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत्सर्वं कथितं चैव विकारं तस्य चैव तम्
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। अब्रुवाणा समीपस्था चरितान्यस्य लक्षय
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि। तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम्
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि। याचते न जलं देयं सकृच्चात्वरमाणया। एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्। यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी। निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत्
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्। निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम्
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित्। दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित्। तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्। संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम्
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम्
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः। ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः। तृणमुष्टिं समादाय सवितुस्तं समादधत्