ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्थाऽनव्वैक्षत
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना। द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात्
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः
अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदंत्वयि कर्म समाहितम्
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रतः। स नले विद्रुते भद्रेभागस्वरिमुपस्थितः
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः। ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः। कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक
इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ। गतस्ततो यथाकामं नैष जानाति नैषधम्
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः
आत्मैव तु नलं वेद या चास्य तदनन्तरा। न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित्
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनःपुनः
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता
तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः। बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत्
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः
विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्रन क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम्। राज्यभ्रष्टं श्रिया हीनं क्षिधितं व्यसनाप्लुतम्
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः। न बाष्पमशकत्सोढुं प्ररुरोद च भारत
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत्सर्वं कथितं चैव विकारं तस्य चैव तम्
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। अब्रुवाणा समीपस्था चरितान्यस्य लक्षय