ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे। बाहुको रथमादाय रथशालामुपागमत्
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः। स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम्। सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम्
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः। नलस्येव महानासीन्न च पश्यामि नैषधम्
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता। तेनाद्य रथनिर्घोषो नलस्येव महानभूत्
कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा। यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते
एवं सा तर्कयित्वा तु दमयन्ती विशांपते। दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा
गच्छ केशिनि जानीहि क एष रथवाहकः। उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः
अभ्येत्य कुशलं भद्रे मृदुपूर्वंसमाहिता। पृच्छेथाः पुरुषे ह्येनं यथातत्त्वमनिन्दिते
अत्र मे महती शङ्का भवेदेष नलो नृपः। यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्थाऽनव्वैक्षत
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना। द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात्
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः
अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदंत्वयि कर्म समाहितम्
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रतः। स नले विद्रुते भद्रेभागस्वरिमुपस्थितः
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः। ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः। कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक
इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ। गतस्ततो यथाकामं नैष जानाति नैषधम्
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः
आत्मैव तु नलं वेद या चास्य तदनन्तरा। न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित्
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनःपुनः
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता
तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने