ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः। विमुक्तः कलिना राजन्रूपमात्रवियोजितः
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्। नादयन्रथघोषेण सर्वाः स विदिशो दिशः
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ
दमयन्ती तु शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्। नलेन संगृहीतेषु पुरेव नलवाजिषु। सदृशं रथनिर्घोषं मेने भैमी तथा हयाः
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा। प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम्
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम्। ममाह्लादयते चेतो नल एव महीपतिः
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि। असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः
यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम्। प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम्
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः। अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः। नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम्। न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः। अहो नीचानुवर्ती च क्लीबवन्मम नैषध
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्। हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्
एवं विलपमाना सा नष्टसंज्ञेव भारत। आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया
ततो मध्यमकक्षायां ददर्श रथमास्थितम्। ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्
ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात्। हयांस्तानवमुच्याथ स्थापयामासतू रथम्
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः। उपतस्थे महाराजं भीमं भीमपराक्रमम्
तं भीमः प्रतिजग्राह पूजया परया मुदा। स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः
स तत्र कुण्डिने रम्ये वसमानो महीपतिः। न च किंचित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः। स तु राज्ञा समागम्य विदर्भपतिना तदा
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत। नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः। राजानं राजपुत्रं वा न स्म पश्यति कंचन
नैव स्वयंवरकथां न च विप्रसमागमम्। `न चान्यं कंचिदारम्भं स्वयंवरविधिं प्रति
ततो विगणयद्राजा मनसा कोसलाधिपः। आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः
राजापि च स्मयन्भीमो मनसा समचिन्तयत्। अधिकं योजनशतं तस्यागमनकारणम्। ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्। पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्। विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः। राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्