ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वायथोक्तानि तावन्त्येव फलानि तु
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप
तमुवाच ततो राजा त्वरितो गमने नृप। विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे। मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्। हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक। एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्। कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः
सातेन कर्शितो राजादीर्घकालमनात्मवान्
तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः'। ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः। तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः। कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा। यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः
अवसं त्वयि राजेन्द्र सुदुःखभपराजित। विषेण नागराजस्य दह्यमानो दिवानिशम्
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम। ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः। मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति
न तेषां मानसं किंचिच्छारीरं वाचिकं तथा। भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्'। भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः। ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम्। कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै
ततो गतत्वरो राजा नैषधः परवीरहा। संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत
मुदा परमया युक्तस्तेजसाऽथ परेण वै। रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्। `ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन
हयोत्तभानुत्पततो द्विजानिव पुनः पुनः। नलः संचोदयामास प्रहृष्टेनान्तरात्मना
विदर्भाभिमुखो राजा प्रययौ स महायशाः। नले तु समतिक्रान्ते कलिरप्यगमद्गृहम्
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः। विमुक्तः कलिना राजन्रूपमात्रवियोजितः
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्। नादयन्रथघोषेण सर्वाः स विदिशो दिशः
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ
दमयन्ती तु शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्। नलेन संगृहीतेषु पुरेव नलवाजिषु। सदृशं रथनिर्घोषं मेने भैमी तथा हयाः
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा। प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम्
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम्। ममाह्लादयते चेतो नल एव महीपतिः
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि। असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः