अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च। नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्। दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः
भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति। प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः। नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्। हृदयेन महाराज पुण्यश्लोकस्य सारथिः
ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम्। चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः
ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत्। कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह
स नदीः पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम स्वेचरः खे चरन्निव
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः। उत्तरीयमधोपश्यद्धष्टं परपुरंजयः
ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्। वार्ष्णेयो यावदेनं मे पटमानयतामिह
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव। योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः। आससाद वने राजन्फलवन्तं बिभीतकम्
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत। ममापि सूत पश्य त्वं संख्याने परमं बलम्
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्
वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक। पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम्
एवपत्राधिकं चात्र फलमेकं च बाहुक। फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः। `प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान्
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः। आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्। परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम्। अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम्
प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम्। अहं हि नाभिजानामि भवेदेव नवेति वा
संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप। मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्। बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्। एष याति शिवः पन्था याहि वार्ष्णेयसारथिः
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन। त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक
त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद। शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक। विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे
अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम्। ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम
अकाम इव तं राजा गणयस्वेत्युवाच ह। एकदेशं च शाखायाः समादिष्टं मयाऽनघ
गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह। सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्