ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः। अश्वशालामुपागम्य भागस्वरिनृपाज्ञया
स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः। अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः। अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्। वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः। `दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि
तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः। किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम्
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम्। महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः
[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः। द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ।।]
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः। यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक। यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्। योजयामास कुशलो जवयुक्तान्रथे नलः
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः। अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः
ततो नरवरः श्रीमान्नलो राजा विशांपते। सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः। सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः। समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः। अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्। वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्
किंनु स्यान्मातलिरयं देवराजस्य सारथिः। तथा तल्लक्षणं वीरे बाहुके दृश्यते महत्
शालिहोत्रोऽथ किंतु स्याद्धयानां कुलतत्त्ववित्। मानुपं समनुप्राप्तो वपुः परमशोभनम्
उताहोस्विद्भवेद्राजा नलः परपुरंजयः। सोयं नृपतिरायात इत्येवं समचिन्तयत्
अथवाऽयंनलात्प्राप्तो विद्यां तामेव बाहुकः। तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च
अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च। नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्। दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः
भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति। प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः। नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्। हृदयेन महाराज पुण्यश्लोकस्य सारथिः
ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम्। चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः
ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत्। कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह
स नदीः पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम स्वेचरः खे चरन्निव
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः। उत्तरीयमधोपश्यद्धष्टं परपुरंजयः
ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः