प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः। श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशांपते। दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत
अयमर्थौ न संवेद्यो भीमे मातः कदाचन। त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम्
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्। यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि
यथा चाहं समानीता सुदेवेनाशु बान्धवान्। तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम्
समानेतुं नलं मातरयोध्यां नगरीमितः। `ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम्
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्। अर्चयामास वैदर्भी धनेनातीव भामिनी
लवाच चैनं महता संपूज्य द्रविणेन वै।' नले चेहागते विप्र भूयो दास्याभि ते वसु
त्वया हि मे बहुकृतंयदन्यो न करिष्यति। यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः। गृहानुपययौ चापि कृतार्थः सुमहामनाः
ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर। अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्। ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
तथा च गणितः कालः श्वोभूते स भविष्यति। यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम
सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति। न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा
एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत्। ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः। `सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः। कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा
बाहुकं च समाहूय दमयन्त्याः स्वयंवरम्'। सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम्। एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह। व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः
दमयन्ती भवेदेवं किंनु दुःखेन मोहिता। अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान्
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी। यया क्षुद्रेण निकृताकृपणा पापबुद्धिना। स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा। नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम्। ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्
इति निश्चित्य मनसा बाहुको दीनमानसः। कृतालुरुवाचेदमृतुपर्णं जनाधिपम्
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप। एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप। `तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि
एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव। किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक
यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम्