भर्तव्या रक्षणीया त्व पत्नी पत्या हि नित्यदा। तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव
ख्यातः प्राज्ञः कुलीनश् सानुक्रोशो भवान्सदा। संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्
तत्कुरुष्व नरव्याघ्र दयां मयि नरर्पभ। आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः
एवंब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन। स नरः सर्वथा ज्ञेयः कश्चासौ क्वनु वर्तते
यश्चैवं वचनं श्रुत्य्वा बूयात्प्रतिवचो नरः। तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः
यथा च वो न जानीयाच्चरतो भीमशासनात्। पुनरागमनं चेह तथा कार्यमतन्द्रितैः
यदि वाऽसौ समृद्धः स्याद्यदि वाऽप्यधनो भवेत्। यदिऽवाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम्
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम्। नलं मृगयितुं राजंस्तदा व्यसनिनं तथा
ते पुराणि सराष्ट्राणि ग्रामान्धोपांस्तथाऽऽश्रमान्। अन्वेषन्तो नलं राजन्नाधिजग्मुर्दविजातयः
तच्च वाक्यं तथा सर्वेतत्रतत्र विशांपते। श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम्
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः। प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्
नैषधं मृगयाणेन दमयन्ति दिवानिशम्। अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः
श्रावितश्च मया वाक्यं त्वदीयं स महाजने। ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः। न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत्
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्। ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः। शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने
स विनिःश्वस्य बंहुशो रुदित्वा च षुनःपुनः। कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन। ्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः
विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः। श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशांपते। दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत
अयमर्थौ न संवेद्यो भीमे मातः कदाचन। त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम्
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्। यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि
यथा चाहं समानीता सुदेवेनाशु बान्धवान्। तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम्
समानेतुं नलं मातरयोध्यां नगरीमितः। `ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम्
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्। अर्चयामास वैदर्भी धनेनातीव भामिनी
लवाच चैनं महता संपूज्य द्रविणेन वै।' नले चेहागते विप्र भूयो दास्याभि ते वसु