तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्। स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन। यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम्
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः। यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः
एते नस्तन्तवस्तात कालेन परिभक्षिताः। यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः। यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्। जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा। अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः। तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत्
तत्सर्वं न समं तात संतत्येति सतां मतम्। स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः। यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा
वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया। बान्धवानां हितस्येह यथा चात्मकुलं तथा
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम। श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः। उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा
मम पूर्वे भवन्तो वै पितरः सपितामहाः। तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया
अहमेव जरत्कारुः किल्बिषी भवतां सुतः। ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः
पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया। किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै
न दारान्वै करिष्येऽहमिति मे भावितं मनः। एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः। करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन। भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्। एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि। अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः। न च स्म लभते भार्यां वृद्धोऽयमिति शानक
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा। तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया। उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः
यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्। निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः