यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्। कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय
यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन। अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्। रजस्वलां नाथवतीमनाथव- त्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्। अन्वागतं भ्रातृभिरप्रमेयै- स्तदा नाशंसे विजयाय संजय
यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय
यदाऽ?श्रौषं स्नातकानां सहस्रै- रन्वागतं धर्मराजं वनस्थम्। भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वनवासेन पार्था- न्समागतान्महर्षिभिः पुराणैः। उपास्यमानान्सगणैर्जातसख्यां- स्तदा नाशंसे विजयाय संजर्य
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय
यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन। बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान्। तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय संजया
यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय
यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत। प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय संजय
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय
यदाऽश्रौषं मामकानां वरिष्ठा- न्धनंजयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय। तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय।। 196
यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्। यस्येमां गां विक्रममेकमाहु- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य। अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय।। 199
बुद्धिं कृतां निग्रहे केशवस्य। तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय