स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत। दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत। रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्। भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता
अहं च तव माता च राजन्यस्य महात्मनः। सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः। त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे
यथैव ते पितुर्गेहं तथेदमपि भामिति। यथैव च ममैश्वर्यं दमयन्ति तथा तव
तां प्रहृष्टेन मनसा दमयन्ती विशांपते। प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि। सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया
सुखात्सुखतरो वासो भविष्यति न संशयः। चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ। पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि। विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप। गुप्तां बलेन महता पुत्रस्यानुमते ततः
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना। यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्
ततः सा नचिरादेव विदर्भानगमच्छुभा। तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ। मातरं पितरं चोभौ सर्वं चैव सखीजनम्
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। परेण विधिना देवी दमयन्ती विशांपते
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः। प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी। विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमिते। नलस्य नरवीरस्य यतस्वानयने पुनः
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता। बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा। हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह
ततो भीमं महाराजं भार्या वचनामब्रवीत्। दमयन्ती नृप भृशं भर्तारमनुशोचति
अपकृष्य च लज्जां सा स्वयमुक्तवती विभो। प्रयतन्तु तवप्रेष्याः पुण्यश्लोकस्य दर्शने
तयाप्रयोदितो राजा ब्राह्मणान्वशवर्तिनः। प्राश्थापयद्दिशः सर्वा यतध्वं नलदर्शने
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा। दमयन्तीमथापृच्छ्य प्रस्थितास्ते तथाऽव्रुवन्
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः। ब्रूत वै जनसंसत्सु तत्रतत्र पुनः पुनः
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी। दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव। प्रसादं कुरु वै देव प्रतिवाक्यं वदस्व च
एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि। वायुना धूयमानो हि वनं दहति पावकः