विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः। सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता
राजा तु नैषधो नाम वीरसेनसुतो नलः। भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः। दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्। सेयमासादिता बाला तव देवि निवेशने
अस्या रूपेण सदृशी मानुषी न हि विद्यते। अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया। मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः। प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते
न चास्या नश्यते रूपं वपुर्मलसमाचितम्। असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम्
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता। लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते। सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्
स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत। दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत। रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्। भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता
अहं च तव माता च राजन्यस्य महात्मनः। सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः। त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे
यथैव ते पितुर्गेहं तथेदमपि भामिति। यथैव च ममैश्वर्यं दमयन्ति तथा तव
तां प्रहृष्टेन मनसा दमयन्ती विशांपते। प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि। सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया
सुखात्सुखतरो वासो भविष्यति न संशयः। चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ। पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि। विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप। गुप्तां बलेन महता पुत्रस्यानुमते ततः
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना। यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्
ततः सा नचिरादेव विदर्भानगमच्छुभा। तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ। मातरं पितरं चोभौ सर्वं चैव सखीजनम्
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। परेण विधिना देवी दमयन्ती विशांपते
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः। प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी। विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमिते। नलस्य नरवीरस्य यतस्वानयने पुनः
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता। बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्