दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः। धारयत्यात्मनो देहं न शोकेनापि सीदति
इमामसितकेशान्तां शतपत्रायतेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः
कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा। भर्तुः समागमात्साध्वीरोहिणी शशिनो यथा
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृतम्। नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा
युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया। समाश्वासयितुं भार्यां पतिदर्शनलालसाम्
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम्
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्। उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा। भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते। आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते
त्वत्कृतेबन्धुवर्गाश्च गतसत्वा इवासते। अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर। पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान्
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता। दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता। सुदेवेन सहैकान्ते कथयन्तीं च भारत
जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम्। ब्राह्मणेन सहागम्य तांविद्धि यदि मन्यसे
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा। जगाम यत्रसा बाला ब्राह्मणेन सहाभवत्
ततः सुदेवमानाय्य राजमाता विशांपते। पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना। त्वया च विदिता विप्र कथमेवंगता सती
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः। तत्त्वेन हि ममाचक्ष्व पृच्छन्त्यादेवरूपिणीम्
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः। सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः। सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता
राजा तु नैषधो नाम वीरसेनसुतो नलः। भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः। दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्। सेयमासादिता बाला तव देवि निवेशने
अस्या रूपेण सदृशी मानुषी न हि विद्यते। अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया। मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः। प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते
न चास्या नश्यते रूपं वपुर्मलसमाचितम्। असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम्
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता। लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते। सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्