दह्यमानः स शोकेन दिवारात्रमतन्द्रितः। निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति
स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन। वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन्
सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने। त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति
एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता। क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति
श्वापदाचरिते नित्यं वने महति दारुणे। त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्। अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने
हृतराज्ये नले भीमः सभार्येऽदर्शनं गते। `चिन्तयामास बहुशः सहामात्यैर्नराधिपः
समाहूय द्विजान्सर्वानिदं वचनमब्रवीत्। अग्रहारं च दास्यामिग्रामं नगरसंमितम्
दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः। गवां शतसहस्राणि दाता तस्मै द्विजातये
इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान्। प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया
संदिदेश च तान्भीमो वसु दत्ता च पुष्कलम्। मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे। गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम्। हिरण्यंच सुवर्णं च दासीदासं तथैव
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा। ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम्। पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया। नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम्
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः। विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि
तयैव राजमाता च ब्राह्मणान्पर्यवेषयत्। भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम्। पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्। निबद्धां धूमजालेन प्रभामिव विभावसोः
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्। तर्कयामास भैमीति कारणैरुपपादयन्
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना। कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियं
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्। कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव। इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्। मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्। पतिशोकाकुलां दीनां कृशस्त्रोतां नदीमिव
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्। दह्यमानामिवार्केण मृणालीमिव चोद्धृताम्
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्। चन्द्रलेखामिव नवांव्योम्नि नीलाभ्रसंवृताम्
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च। देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया
भर्ता नाम परं नार्या भूषणं भूषणैर्विना। एषा हि रहिता तेन शोभमाना न शोभते