पदानि गणयन्गच्छ स्वानि नैषध कानिचित्। तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम्
ततः संख्यातुमारब्धमदशद्दशमे पदे। तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः। स्वरूपधारिणं नागं ददर्श स महीपतिः
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्। मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति
यत्कृते चासि निकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति। तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति
अनागा येन निकृतस्त्वमनर्हो जनाधिप। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा। ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप
राजन्विषनिमित्ता च न ते पीडा भविष्यति। संग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर। स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति। भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा
संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः। राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप। संस्मर्तव्यस्तदा तेऽहंवासश्चदं विवासयेः
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा
एवं नलं च संदिश्य वासो दत्ताव च कौरव। नागराजस्ततो राजंस्तत्रैवान्तरधीयत
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः। ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्। अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च। अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः
यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम्। सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम्
इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः। उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते
वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि। शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः
स त्वमातिष्ठ योगं तं येन शीध्रां हया मम। भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम्
त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ। एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक
एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः। ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः
स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन्। सायंसायं सदा चेमं श्लोकमेकं जगाद ह
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी। स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्। कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक। आयुष्मन्कस्य वा नारी यामेवमनुशोचसि
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्। आसीद्बहुमता नारी तस्या दृढतरश्च सः
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत। विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः