अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः। इहैव वसती भद्रे भर्तारमुपलप्स्यसे
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्। समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्। न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्। वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम्
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्। यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः। अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत्। सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्
एवमुक्त्वा ततो भैमीं राजमाता विशांपते। उवाचेदं दुहितरं सुनन्दां नाम भारत
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्। वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्। एतया सह मोदस्व निरुद्विग्रमना सदा
ततः परमसंहृष्टा सुनन्दा गृहणागमत्। दमयन्तीमुपादाय सखीभिः परिवारिता
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया। चिन्तयन्ती नलं वीरमनिशं वामलोचना
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते। ददर्श दावं दह्यन्तं महान्तं गहने वने
तत्र सुश्राव शब्दंवै मध्ये भूतस्य कस्यचित्। अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्। दद्रश नागराजानं शयानं कुण्डलीकृतम्
स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा। उवाच मां विद्धिराजन्नागं कर्कोटकं नृप
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः। तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित्। इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात्
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्। उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः। लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः। दं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना। उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्। तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम्
ततः संख्यातुमारब्धमदशद्दशमे पदे। तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः। स्वरूपधारिणं नागं ददर्श स महीपतिः
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्। मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति
यत्कृते चासि निकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति। तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति
अनागा येन निकृतस्त्वमनर्हो जनाधिप। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा। ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप
राजन्विषनिमित्ता च न ते पीडा भविष्यति। संग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्