तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्। उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा। अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात्
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः। तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम्
धात्रीमुवाच च्छैनामानयेह ममान्तिकम्। जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्। उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्। आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः। भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्। असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्। मानुषीं मां विजानीहि भर्तारं समनुव्रताम्
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्। फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः। भक्ताऽहमपि तं वीरं छायेवानुगता पथि
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने। द्यूते स निर्जितश्चैव वनमेक उपेयिवान्
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम्। आश्वासयन्ती भर्तारमहमप्यगमं वनम्
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे। क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत्
तमेकवसना नग्नमुन्मत्तवदचेतसम्। अनुव्रजन्ती बहुला न स्वपामि निशाः सदा
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्। वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम्
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्। न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम्
इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत। स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु। राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम्
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि। मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः। इहैव वसती भद्रे भर्तारमुपलप्स्यसे
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्। समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्। न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्। वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम्
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्। यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः। अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत्। सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्
एवमुक्त्वा ततो भैमीं राजमाता विशांपते। उवाचेदं दुहितरं सुनन्दां नाम भारत
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्। वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्। एतया सह मोदस्व निरुद्विग्रमना सदा
ततः परमसंहृष्टा सुनन्दा गृहणागमत्। दमयन्तीमुपादाय सखीभिः परिवारिता
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया। चिन्तयन्ती नलं वीरमनिशं वामलोचना