अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम्। योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्। प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्। या नाहमद्य मृदिता हस्तियूथेन दुःखिता
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते। न च मे बालभावेऽपि किंचित्पापकृतं कृतम्
कर्मणा मनसा वाचा यदिदं दुःखमागतम्। मन्ये स्वयंवरकृतेलोकपाला समागताः
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः। नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना। प्रलापानि तदा तानि दमयन्ती पतिव्रता
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः। अगच्छद्राजशार्दूल दुःखशोकपरायणा
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत्। सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः
सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम्।' वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम्
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्। उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा। अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात्
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः। तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम्
धात्रीमुवाच च्छैनामानयेह ममान्तिकम्। जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्। उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्। आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः। भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्। असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्। मानुषीं मां विजानीहि भर्तारं समनुव्रताम्
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्। फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः। भक्ताऽहमपि तं वीरं छायेवानुगता पथि
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने। द्यूते स निर्जितश्चैव वनमेक उपेयिवान्
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम्। आश्वासयन्ती भर्तारमहमप्यगमं वनम्
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे। क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत्
तमेकवसना नग्नमुन्मत्तवदचेतसम्। अनुव्रजन्ती बहुला न स्वपामि निशाः सदा
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्। वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम्
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्। न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम्
इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत। स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु। राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम्
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि। मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम