राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी। तस्याः सर्वमिदं पापं नात्र कार्या विचारणा
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम्। लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः। अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम्
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्। ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम्
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत्
अहो ममोपरि विधेः संरम्भो दारुणो महान्। नानुबध्नाति कुशलं कस्येदं कर्मणः फलम्
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि। कर्मणा मनसा वाचा कस्येदं कर्मणः फलम्
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत्। अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम्
भर्तृराज्यापहरणं स्वजनाच्च रपराजयः। भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः। निर्नाथता वने वासो बहुव्यालनिषेविते
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा। वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्। भ्रातरं पितरं पुत्रं सखायं च नराधिप
हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता। ब्राह्मणैः सहिता तत्रवने तु न विनाशिता
अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम्। योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्। प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्। या नाहमद्य मृदिता हस्तियूथेन दुःखिता
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते। न च मे बालभावेऽपि किंचित्पापकृतं कृतम्
कर्मणा मनसा वाचा यदिदं दुःखमागतम्। मन्ये स्वयंवरकृतेलोकपाला समागताः
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः। नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना। प्रलापानि तदा तानि दमयन्ती पतिव्रता
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः। अगच्छद्राजशार्दूल दुःखशोकपरायणा
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत्। सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः
सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम्।' वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम्
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्। उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा। अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात्
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः। तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम्
धात्रीमुवाच च्छैनामानयेह ममान्तिकम्। जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्। उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्। आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः। भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्। असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्। मानुषीं मां विजानीहि भर्तारं समनुव्रताम्
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्। फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्