कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि। पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने। तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु
साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः। क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः। क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा। जगाम सह तेनैव सार्थेन पतिलालसा
अथ काले बहुतिथे वने महति दारुणे। तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम्
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्। बहुमूलफलोपेतं नानापक्षिनिषेवितम्
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम्। सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्। उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम्
अथार्धरात्रसमये निःशब्दे तिमिरे तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्। पानीयार्थं गिरितटान्मदप्रस्रवणाविलम्
[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान्
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा। समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः
तेषामापततां वेगः करिणां दुःसहोऽभवत्। नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ। स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ।।]
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्। ते तं ममर्दुः सहसा वेष्टमानं महीतले
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः। वनगुल्मांश्च धावन्तो निद्रया महतो भयात्
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः। भयादाधावमानाश् परस्परहतास्तदा
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले। वृक्षेष्वासज्यसंभग्नाः पतिता विषमेषु च
एवंप्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः। राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम्
आरावः सुमहांश्चासीत्रैलोक्यभयकारकः। एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत। सामान्यमेतद्द्रविणं न मिथ्या वचनं मम
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः। एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये। दमयन्ती च बुबुधे भयसंत्रस्तमानसा। अपश्यद्वैशसं तत्र सर्वलोकभयंकरम्
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा। संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः। तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम्
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः। तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः
न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता
शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम्। ग्रहा न विपरीतास्तु किमन्यदिदमागतम्
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता। याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम्। तयैवं विहिता पूर्वं माया परमदारुणा