सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा। नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः
कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः। ददर्श तान्भीमसुता पतिमन्वेषती तदा
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता। ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्। सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रबाकोपकूजिताम्। कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम्
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी। उपसर्प्य वरारोहा जनमध्यं विवेश ह
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता। कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा
तां दृष्ट्वा तत्रमनुजाः केचिद्भीताः प्रदुद्रुवुः। केचिच्चिन्तापरास्तस्थुः केचित्तत्रविचुक्रुशुः
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे। कुर्वन्त्यस्यांदयांकेचित्पप्रच्छुश्चापि भारत
काऽसि कस्यासि कल्याणि किं वा मृगयसे वने। त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसिं मानुषी
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः। देवता त्वं हि कल्याणि त्वां वयं शरणं गताः
यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना। सर्वथाकुरु नः स्वस्ति रक्ष चास्माननिन्दिते
यथाऽयंसर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्। तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा। प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता
सार्तवाहं च सार्थं च जना ये चात्र केचन। युवस्थविरबालाश् सार्थस्य च पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्। नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्
विदर्भराण्मम पिता भर्ता राजा च नैषधः। नलोनाम महाभागस्तं मार्गाम्यपराजितम्
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्। नलं पुरुषशार्दूलममित्रगणसूदनम्
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः। सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते। मनुष्यं नलनामानं न पश्यामि यशस्विनि
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि। पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने। तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु
साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः। क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः। क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा। जगाम सह तेनैव सार्थेन पतिलालसा
अथ काले बहुतिथे वने महति दारुणे। तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम्
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्। बहुमूलफलोपेतं नानापक्षिनिषेवितम्
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम्। सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्। उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम्
अथार्धरात्रसमये निःशब्दे तिमिरे तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्। पानीयार्थं गिरितटान्मदप्रस्रवणाविलम्