सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः। ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः। मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः। सपत्नानां मृधे हन्ता रविसोमसमप्रभः
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः। आहृय पृथिवीपालः सत्यधर्मपरायणः। देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च
तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै। दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्
सा वनानि गिरींश्चैव सरांसि सरितस्तथा। पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः
अन्वेपमाणआ भर्तारं नलं रणविशारदम्। महात्मानं कृतास्त्रं च विचरामीह दुःखिता
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः। भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः
यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम्। वनं प्रतियं धोरं शार्दूलमृगसेवितम्
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्। आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात्
कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम्। कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता
तथा विलपतीमेकामरण्ये भीमनन्दिनीम्। दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः
उदर्कस्तव कल्याणि कल्याणो भविता शुभे। वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्
निपधानामधिपतिं नलं रिपुनिपातिनम्। भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्। तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम्
द्विपतां भयकर्तारं सुहृदां शोकनाशनम्। पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम्
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्। अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा
सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा। दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा
चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम्
किंनु स्वप्नो मया दृष्टः कोऽयंविधिरिहाभवत्। क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम्
क्व सा पुण्यजला रम्या नदी द्विजनिषेविता। क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः
इत्येवं नरशार्दूल विस्मिता कमलेक्षणा।' ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता। भर्तृशोकपरा दीनाविवर्णवदनाऽभवत्
सा गत्वाऽथापरां भूमिं बाष्पसंदिग्धया गिरा। विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने। पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम्
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे। आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन। वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्
नलं नामारिदमनं नमयन्त्याः प्रियं पतिम्। निमधानामधिपतिं दृष्टवानसि मे प्रियम्
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्। व्यसनेनार्दितं वीरमरण्यमिदमागतम्
यथा विशोका गच्छेयमशोकनग तत्कुरु। सत्यनामा भवाशोक मम शोकविनाशनात्
एवंसाऽशोकवृत्तं तमार्ता वै परिगम्य ह। जगाम दारुणतरं देशं भैमी वराङ्गना