वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः। आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं
इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी। दमयन्ती ततो भूयो जगाम दिशमुत्तराम्
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना। तापसारण्यमतुलं दिव्यकाननशोभितम्
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्। नियतैः संयताहारैर्दमशौचसमन्वितैः
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च। जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः। तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्
नानामृगगणैर्जुष्टं शाखामृगगणायुतम्। तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना। वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना
सा विवेशाश्रमपदं वीरसेनसुतप्रिया। योषिद्रत्नं महाभागा दमयन्ती तपस्विनी
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता। स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः
पूजां चास्या यथान्यायं कृत्वा तत्रतपोधनाः। आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे
तानुवाच वरारोहा कच्चिद्भगवतामिह। तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः
कुशलं वो महाभागाः स्वधर्माचरणेषु च। तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
ब्रूहि सर्वानवद्याङ्गि का त्वं किंच चिकीर्षसि। दृष्ट्वैव ते परंरूपं द्युतिं च परमामिह
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः। अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः। अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते
साऽब्रवीत्तानृपीन्नाहमरण्यस्यास्य देवता। न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता
मानुषीं मां विजानीत यूयं सर्वेतपोधनाः। विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः
विदर्भेपु महीपालो भीमो नाम महीपतिः। तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः
निपधाधिपतिर्धीमान्नलो नाम महायशाः। वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः
देवताभ्यर्चनपरो द्विजातिजनवत्सलः। गोप्ता निपधवंशस्य महातेजा महाबलः
सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः। ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः। मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः। सपत्नानां मृधे हन्ता रविसोमसमप्रभः
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः। आहृय पृथिवीपालः सत्यधर्मपरायणः। देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च
तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै। दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्
सा वनानि गिरींश्चैव सरांसि सरितस्तथा। पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः
अन्वेपमाणआ भर्तारं नलं रणविशारदम्। महात्मानं कृतास्त्रं च विचरामीह दुःखिता
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः। भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः
यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम्। वनं प्रतियं धोरं शार्दूलमृगसेवितम्
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्। आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात्