नानाधातुसमाकीर्णं विविधोपलभूषितम्। आस्यारण्यस्य महतः केतुभूतमिवोच्छितम्
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्। पतत्रिभिर्बहुविधैः समन्तादनुनादितम्
किंशुकाशोकबकुलपुन्नागैरुपशोभितम्। [कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ।।]
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्। `पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्'। निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति
भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत। शरण्य बहुकल्याण नमस्तेऽस्तु महीधर
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम्। राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम्
राजा विदर्भाधिपतिः पिता मम महारथः। भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्। आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः। शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्
निषधेषु महाराजः श्वशुरो मे नरोत्तमः। गृहीतनामा विख्यातो वीरसेन इति स्म ह
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः। क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह
नलो नामारिहा श्यामः पुण्यल्को इति श्रुतः। ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित्
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता। तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्। अन्वेषमाणां भर्तारं नलं नरवरोत्तमम्
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः। कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः। निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः
कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम्। गिरा नाश्वासयस्यद्यस्वां सुतामिव दुखितां
वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते। यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना
कदा सुस्निग्गम्भीरां जीमूतस्वनसन्निभाम्। श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्
वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः। आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं
इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी। दमयन्ती ततो भूयो जगाम दिशमुत्तराम्
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना। तापसारण्यमतुलं दिव्यकाननशोभितम्
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्। नियतैः संयताहारैर्दमशौचसमन्वितैः
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च। जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः। तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्
नानामृगगणैर्जुष्टं शाखामृगगणायुतम्। तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना। वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना
सा विवेशाश्रमपदं वीरसेनसुतप्रिया। योषिद्रत्नं महाभागा दमयन्ती तपस्विनी
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता। स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः