हा वीर ननुनामाहमिष्टा किल तवानघ। अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः। अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि
न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा। तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप। ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे
कृशां दीनां विवर्णां च मलिनां वसुधाधिप। वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन। न मानयसि मामार्य रुदन्तीमरिकर्शन
महाराज महारण्ये मामिहैकाकिनीं सतीम्। आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे
कुलशीलोपसंपन्नां चारुसर्वाङ्गशोभनाम्। `अनुव्रतां महाराज किं मां न प्रतिभाषसे
नाद्यत्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम। वने चास्मिन्महाधोरे सिंहव्याघ्रनिषेविते
शयानमुपविष्टं वा स्थितं वा निषधाधिप। प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता। कच्चिद्दृष्टस्त्वयाऽरण्ये संगत्येति नलो नृपः
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम्। अभिरूपं महात्मानं परव्यूहविनाशनम्
यमन्वेपसि राजानं नलं पद्मनिभेक्षणम्। अयंस इति कस्याद्य श्रोष्यामि मधुरां गिरम्
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः। शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः। विदर्भराजतनयां दमयन्तीति विद्धि माम्
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः। पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः। `सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः
अथवाऽरण्यनृपते नलं यदि न शंससि। मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय
श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम्। यात्येष मृष्टसलिलामापगां सागरोपमाम्
इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छितैः। विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः
नानाधातुसमाकीर्णं विविधोपलभूषितम्। आस्यारण्यस्य महतः केतुभूतमिवोच्छितम्
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्। पतत्रिभिर्बहुविधैः समन्तादनुनादितम्
किंशुकाशोकबकुलपुन्नागैरुपशोभितम्। [कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ।।]
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्। `पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्'। निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति
भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत। शरण्य बहुकल्याण नमस्तेऽस्तु महीधर
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम्। राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम्
राजा विदर्भाधिपतिः पिता मम महारथः। भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्। आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः। शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्